प्रवृद्धादीनां च क्तान्तम् उत्तरपदम् अन्तोदात्तं भवति। प्रवृद्धं यानम्। प्रवृद्धो वृषलः। प्रयुक्ताः सक्तवः आकर्षे अवहितः। अवहितो भोगेसु। खट्वारूढः। कविशस्तः। यानदीनाम् अत्र गणे पाठः प्रायोवृत्तिप्रदर्शनार्थः, न विषयनियमार्थः। यानादिभ्यो ऽन्यत्र अपि तेषाम् अन्तोदात्तत्वम् भवत्येव। विषयनियमार्थ एव इत्येके। असंज्ञार्थो ऽयम् आरम्भः। आकृतिगणश्च प्रवृद्धादिर् द्रष्तव्यः। तेन पुनरुत्स्यूतं वासो देयम्, पुनर्निष्कृतो रथः इत्येवम् आदि सिद्धं भवति।
गतिस्वरे प्राप्त इदं वचनम्()। "प्रवृद्धम्()" इति "वृधु वृद्धौ" (धा।पा।७५९) "प्रयुता" [प्रयुंक्ताः--काशिका] इति। "युमिश्रणे" (धा।पा।१०३३)--"अवहितम्()" इति। पूर्ववद्दधातेर्हिरादेशः। "खट्वारूढः" इति। "रुह बीजजन्मनि" (धा।पा।८५९), "झषस्ततोर्धोऽधः"
८।२।४०, "ढो ढे लोपः"
८।३।१३ "ढ्रलोपे पूर्वस्य दोर्घोऽणः"
६।३।११०, "खट्वा क्षेपे"
२।१।२५ इति समासः। असय "अहीने द्वितीया"
६।२।४७ इति पूर्वपदप्रकृतिस्वरे प्राप्त इह पाठः। "कविशस्तः" इति। "शसु हिंसायाम्()" (धा।पा।७२७), "कर्तृकरणे कृता बहुलम्()"
२।१।३१ इति समासः। अस्यापि "तृतीया कर्मणि"
६।२।४८ इति पूर्वपदप्रकृतिस्वर एव।
"यानादीनाम्()" इति। आदिशब्देन वृषादीनां ग्रहणम्()। यानादीनामर्थानां य इह पाठः, स प्रवृद्धादीनांयानादिष्वर्तेषु प्रायो बाहुल्येन या वृत्तिस्तस्याः प्रदर्शनार्थम्()। न तु प्रवृद्धस्य यानवृषलयोरवार्थयोरन्तोदात्तत्वं भवति। प्रयुक्तशब्दस्य सक्तुष्वेवतीत्येवमादिषु विषयियमार्थः।
तेन किं भविष्यति? इत्याह--"यानादिभ्योऽन्यत्रापि" इत्यादि। "विषयनियमार्थ इत्येके" इति। तेषामनेन यानादिभ्योऽन्यत्र न भवितव्यम्()।
"असंज्ञार्थोऽयमारम्भः" इति। संज्ञायां पूर्वेणैव सिद्धत्वात्()।
"आकृतिगणश्च प्रवृद्धादिद्र्रष्टव्यः" इति।
कुत एत्()? अकृतिगणतां तस्य सूचयितुमनुक्तसमुच्चयार्थस्य चकारस्येह करणात्();
आकृतिगणत्वे यत्? सिद्धं भवति, तद्दर्शयितुमाह--"पुनरुत्स्यूतं वासः" इत्यादि। "षिवु तन्तुसन्ताने" (धा।पा।११०८) "चछ्वोः शूडनुनासिके च"
६।४।१९ इत्यूठ्(), यणादेशः। "पुनर्निष्कृतः" इति। "इदुदुपधस्य चाप्रत्यस्य"
८।३।४१ इति विसर्जनीयस्य षत्वम्()॥